Bhagavad Gita 6.20 — Commentary
18 Scholarly Commentaries · Advaita · Vishishtadvaita · Dvaita · Bhakti
Shankaracharya · Ramanuja · Madhvacharya · Chinmayananda · Sivananda · and more
यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति
yatroparamate chittaṁ niruddhaṁ yoga-sevayā yatra chaivātmanātmānaṁ paśhyann ātmani tuṣhyati
"When the mind, restrained by the practice of yoga, attains quietude, and when one sees the Self by the Self, they are satisfied in their own Self."
Scholar Commentaries (18)
Compare how different schools of Vedantic philosophy interpret this verse.
Sri Shankaracharya
8th century CE · Advaita Vedanta
The greatest Advaita philosopher, authored the definitive Sanskrit commentary (Bhasya) on the Gita.
यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो निवारितप्रचारं योगसेवया योगानुष्ठानेन यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेन अन्तःकरणेन आत्मानं परं चैतन्यं ज्योतिःस्वरूपं पश्यन् उपलभमानः स्वे एव आत्मनि तुष्यति तुष्टिं भजते।।किञ्च
Sri Ramanuja
11th–12th century CE · Vishishtadvaita
Founder of Vishishtadvaita, emphasized Bhakti and the personal nature of Brahman.
योगसेवया हेतुना सर्वत्र निरुद्धं चित्तं यत्र योगे उपरमते अतिशयितसुखम् इदम् एव इति रमते यत्र च योगे आत्मना मनसा आत्मानं पश्यन् अन्यनिरपेक्षम् आत्मनि एव तुष्यति।
Sri Madhavacharya
13th century CE · Dvaita Vedanta
Proponent of Dvaita philosophy emphasizing the eternal distinction between soul and God.
आत्मना मनसा आत्मनि देहे आत्मानं भगवन्तं पश्यन्।
Swami Sivananda
20th century CE · Integral Yoga
Divine Life Society founder who synthesised Jnana, Bhakti, Karma, and Raja Yoga.
6.20 यत्र where? उपरमते attains ietude? चित्तम् mind? निरुद्धम् restrained? योगसेवया by the practice of Yoga? यत्र where? च and? एव only? आत्मना by the Self? आत्मानम् the Self? पश्यन् seeing? आत्मनि in the Self? तुष्यति is satisfied.Commentary The verses 20? 21? 22 and 23 must be taken together.When the mind is completely withdrawn from the objects of the senses? supreme peace reigns within the heart. When the mind becomes ite steady by constant and protracted practice of concentration the Yogi beholds the Supreme Self by the mind which is rendered pure and onepointed and attains to supreme satisfaction in the Self within.
Swami Ramsukhdas
20th century CE · Gita Press Gorakhpur
Prolific author and commentator whose Hindi commentaries are among the most widely read in India.
व्याख्या--'यत्रोपरमते चित्तं ৷৷. पश्यन्नात्मनि तुष्यति'--ध्यानयोगमें पहले 'मनको केवल स्वरूपमें ही लगाना है' यह धारणा होती है। ऐसी धारणा होनेके बाद स्वरूपके सिवाय दूसरी कोई वृत्ति पैदा हो भी जाय, तो उसकी उपेक्षा करके उसे हटा देने और चित्तको केवल स्वरूपमें ही लगानेसे जब मनका प्रवाह केवल स्वरूपमें ही लग जाता है, तब उसको ध्यान कहते हैं। ध्यानके समय ध्याता, ध्यान और ध्येय--यह त्रिपुटी रहती है अर्थात् साधक ध्यानके समय अपनेको ध्याता (ध्यान करनेवाला) मानता है, स्वरूपमें तद्रूप होनेवाली वृत्तिको ध्यान मानता है और साध्यरूप स्वरूपको ध्येय मानता है। तात्पर्य है कि जबतक इन तीनोंका अलग-अलग ज्ञान रहता है, तबतक वह 'ध्यान' कहलाता है। ध्यानमें ध्येयकी मुख्यता होनेके कारण साधक पहले अपनेमें ध्यातापना भूल जाता है। फिर ध्यानकी वृत्ति भी भूल जाता है। अन्तमें केवल ध्येय ही जाग्रत् रहता है। इसको 'समाधि' कहते हैं। यह 'संप्रज्ञातसमाधि' है जो चित्तकी एकाग्र अवस्थामें होती है। इस समाधिके दीर्घकालके अभ्याससे फिर 'असंप्रज्ञात-समाधि' होती है। इन दोनों समाधियोंमें भेद यह है कि जबतक ध्येय, ध्येयका नाम और नाम-नामीका सम्बन्ध--ये तीनों चीजें रहती हैं, तबतक वह 'संप्रज्ञात-समाधि' होती है। इसीको चित्तकी 'एकाग्र' अवस्था कहते हैं। परन्तु जब नामकी स्मृति न रहकर केवल नामी (ध्येय) रह जाता है, तब वह 'असंप्रज्ञात-समाधि' होती है। इसीको चित्तकी 'निरुद्ध' अवस्था कहते हैं।निरुद्ध अवस्थाकी समाधि दो तरहकी होती है--सबीज और निर्बीज। जिसमें संसारकी सूक्ष्म वासना रहती है, वह 'सबीज समाधि' कहलाती है। सूक्ष्म वासनाके कारण सबीज समाधिमें सिद्धियाँ प्रकट हो जाती हैं। ये सिद्धियाँ सांसारिक दृष्टिसे तो ऐश्वर्य हैं, पर पारमार्थिक दृष्टिसे (चेतन-तत्त्वकी प्राप्तिमें) विघ्न हैं। ध्यानयोगी जब इन सिद्धियोंको निस्तत्त्व समझकर इनसे उपराम हो जाता है, तब उसकी 'निर्बीज समाधि' होती है, जिसका यहाँ (इस श्लोकमें)
Sri Harikrishnadas Goenka
19th–20th century CE · Gita Press
Co-founder of Gita Press Gorakhpur whose translations shaped how millions of Hindus read scripture.
इस प्रकार योगाभ्यासके बलसे वायुरहित स्थानमें रखे हुए दीपककी भाँति एकाग्र किया हुआ योगसाधनसे निरुद्ध किया हुआ सब ओरसे चञ्चलतारहित किया हुआ चित्त जिस समय उपरत होता है उपरतिको प्राप्त होता है। तथा जिस कालमें समाधिद्वारा अति निर्मल ( स्वच्छ ) हुए अन्तःकरणसे परम चैतन्य ज्योतिःस्वरूप आत्माका साक्षात् करता हुआ वह अपने आपमें ही संतुष्ट हो जाता है तृप्ति लाभ कर लेता है।
Sri Anandgiri
13th century CE · Advaita
Pupil of Adi Shankaracharya's lineage who wrote important sub-commentaries (Tikas).
द्विविधः समाधिः संप्रज्ञातोऽसंप्रज्ञातश्च ध्येयैकाकारसत्त्ववृत्तिर्भेदेन कथंचिज्ज्ञायमाना संप्रज्ञातः समाधिः कथमपि पृथगज्ञायमाना सैव सत्त्ववृत्तिरसंप्रज्ञातः समाधिः तत्र सामान्येन समाधिलक्षणमभिधायासंप्रज्ञातस्य समाधेरधुना लक्षणं विवक्षन्नाह एवमिति। काले समाध्युपलक्षिते। एवकारस्तुष्यतीत्यनेन संबध्यते। चकारस्य संबन्धमाह यस्मिंश्चेति। कालस्तु पूर्ववत्। कर्मकारकत्वेन निर्दिष्टमात्मानं तत्पदार्थत्वेन व्याचष्टे परमिति। आत्मनीत्यस्य त्वंपदार्थविषयत्वमाह स्व एवेति। परमात्मानं प्रतीच्येव तद्भावेनापरोक्षीकुर्वन्नतुष्टिहेत्वभावात्तुष्यत्येवेत्यर्थः। तस्मिन्काले योगसिद्धिर्भवतीति शेषः।
Sri Dhanpati
14th century CE · Vedanta
Disciple of Vidyaranya who authored important sub-commentaries on Vedantic texts.
द्विविधः समाधिः संप्रज्ञातोऽसंप्रज्ञातश्चेति। तत्र ध्येयैकाकारसत्त्ववृत्तिर्भेदेन कथंचिज्ज्ञायमाना आद्यः। कथमपि पृथगज्ञायमाना सैव सत्त्ववृत्तिर्द्वितीयः। तत्राद्यं प्रदर्श्य इदानीं द्वितीयस्य लक्षणं विवक्षन्नाह यत्रेति। निरुद्धं सर्वतो निवारितप्रचारं यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेनान्तःकरणेनात्मानं परं तत्पदार्थ ज्योतिःस्वरुपं पश्यन्नुपलभमाः त्वंपदार्थ आत्मन्येव तुष्यति परमात्मानं प्रत्यक्चैतन्यएव तद्भावेनापरोक्षीकुर्वन् अतुष्टिनिदानाभावात्तुष्टिं लभत एवेत्यर्थः।
Sri Neelkanth
17th century CE · Advaita
Wrote "Bhārata Bhāvadīpa", a verse-by-verse commentary on the Mahabharata including the Gita.
यत्रेति। एवं चित्तमेकाग्रीभूतं सत् योगसेवया निरुद्धं यत्र यस्यामवस्थायामुपरमते विलीनं भवति यत्र वा आत्मना चित्तेनात्मानं निर्विकल्पं पश्यन्नात्मनि तुष्यति न बाह्यार्थे तुष्टिं भजते।
Sri Sridhara Swami
14th century CE · Advaita
Authored "Subodhinī", widely praised for its clarity and depth across all Vedantic schools.
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डवेत्यादौ कर्मैव योगशब्देनोक्तं नात्यश्नतस्तु योगोस्तीत्यादौ तु समाधिर्योगशब्देनोक्तः। तत्र मुख्यो योगः क इत्यपेक्षायां समाधिमेव स्वरूपतः फलतश्च लक्षयन्स एव मुख्यो योग इत्याह यत्रेति सार्धैस्त्रिभिः। यत्र यस्मिन्नवस्थाविशेषे योगाभ्यासेन निरुद्धं चित्तमुपरतं भवतीति योगस्य स्वरूपलक्षणमुक्तम्। तथाच पातञ्जलं सूत्रम्योगश्चित्तवृत्तिनिरोधः इति। इष्टप्राप्तिलक्षणेन फलेन तमेव लक्षयति। यत्र च यस्मिन्नवस्थाविशेषे आत्मना शुद्धेन मनसात्मानमेव पश्यति नतु देहादि पश्यंश्चात्मन्येव तुष्यति नतु विषयेषु। यत्रेत्यादीनां यच्छब्दानां तं योगसंज्ञितं विद्यादिति चतुर्थेनान्वयः।
Sri Vedantadeshikacharya Venkatanatha
13th–14th century CE · Vishishtadvaita
Prolific philosopher-poet of Sri Vaishnavism who composed the "Tatparya Chandrika" on the Gita.
पुनरपि योगदशैव आदरातिरेकाय निरतिशयपुरुषार्थत्वप्रतिपादनेन प्रपञ्च्यते यत्र इत्यादिभिः।निरुद्धं इत्यत्र परिगृहीतत्वविनष्टत्वादिभ्रमव्युदासाय योगसेवया हेतुना सर्वत्र निरुद्धमित्युक्तम्। सर्वतो निरुद्धमित्युक्ते प्रवृत्तस्य निवारणमात्रं प्रतीयेतसर्वत्र इत्युक्ते तूत्तरोत्तरप्रवृत्त्यनुदयोऽपि सिध्यतीति सप्तमीनिर्देशः।योगसेवया निरुद्धं यत्रोपरमते इत्युक्ते योगस्य पृथगुपादानात् यच्छब्दार्थस्य योगाद्व्यतिरेकः प्रतीयेतेति तद्व्युदासाययोगसंज्ञितम् इति वक्ष्यमाणान्वयेनयत्र योग इत्युक्तम्।यत्र यस्मिन् काले इति परोक्तमयुक्तम् उपरितनयच्छब्दभिन्नार्थत्वप्रसङ्गात् प्रतिनिर्देशस्थयोगशब्दानन्वयाच्चेति भावः।यत्रोपरमते इत्यत्र यतो विच्छिद्यत इति भ्रमापाकरणायाहअतिशयितेति। यत्र सिद्धेऽन्यत उपरमत इत्यध्याहारेण योजना न युक्ता तथा सतिनिरुद्धं इत्यनेन पुनरुक्तिश्च स्यात्। उपसर्गाणां च नानार्थत्वादयमेवातिशयितार्थ उपपन्नः। आसक्तिप्रतिपादनद्वारा तात्पर्येण वायमर्थः सिध्यतीति भावः। यत्र चैवेत्येवकारस्य यथाक्रमान्वये प्रयोजनाभावात् उचितान्वयप्रदर्शनाय आत्मन्येव तुष्यतीत्युक्तम्।अन्यनिरपेक्षमित्यवधारणतोषशब्दाभ्यां अर्थसिद्धोक्तिः। यद्वाआत्मानं पश्यंस्तुष्यति इत्येतावतैव विवक्षितसिद्धौ पुनरात्मनीति निर्देशः तदन्यव्युदासार्थ इत्यभिप्रायः। आत्मनि परमात्मानमिति योजना तु जीवयोगविषयत्वादिहासङ्गता। अतीन्द्रियमित्युक्तत्वात् परिशेषात् औचित्याच्चबुद्धिग्राह्यम् इत्यत्र बुद्धिं विशिनष्टि आत्मबुद्ध्येकेति।आत्यन्तिकं पुनर्दुःखसम्भेदरहितमित्यर्थः। यदेवंविधं सुखं तद्यत्र वेत्तीत्यन्वयः। यद्वा यत्तदिति पिण्डितं प्रसिद्ध्यतिशयार्थं तदित्येवार्थः। केचित्तु यत्तच्छब्दान्वयप्रकारमजानन्तःसुखमात्यन्तिकं यत्र इति पठन्तिवेत्ति यत्र इति यत्रशब्दः पूर्वोत्तरवाक्यसाधारणतया मध्ये प्रयुक्तः। वेत्तीत्यस्यापवर्गदशानुभाव्यसुखप्रतिसन्धानपरत्वव्युदासाय योगरूपापारोक्ष्याभिप्रायेणअनुभवतीत्युक्तम्।आत्मनि तुष्यति इति पूर्वमितरसुखनिरपेक्षत्वपरम्।सुखमात्यन्तिकम् इत्यादिकं तुस्वरूपसुखानुभवपरमित्यपौनरुक्त्यम्।सुखातिरेकेणेति उक्त एवाचलनहेतुरुचित इति भावः। प्रामाणिकार्थान्न चलतीति वा सम्यक् चलतीति वा निर्वहणं मन्दम्। योगदशायां च सुखातिरेकेण स्वरसतस्तदवस्थयैव चिरतरावस्थानाभिधानमुचितमपेक्षितं चेत्यभिप्रायेणतत्त्वतः इत्यस्यतद्भावादिति प्रतिपदमुक्तम्। इतरविषयनिरोधनैरपेक्ष्येयत्र इति श्लोकेनोक्ते। तत आत्मस्वरूपसुखानुभवस्तस्य स्वरसवाहितया दुर्विच्छेदत्वं चसुखम् इति श्लोकेनाभिहिते।अथयं लब्ध्वा इति श्लोकेन योगविरतिकालेष्वपि तस्यैवाभिलाषपदत्वाद्बाह्यसुखाभिलाषेण दुःखेन चानास्कन्दनमुच्यत इति विभागज्ञापनाभिप्रायेणयोगाद्विरत इत्यादिकमुक्तम्। योगदशायां तु लाभान्तरप्रतिसन्धानमेव नास्तीति भावः।गुरुणापि इत्युक्तगौरवव्यञ्जनायगुणवत्पुत्रवियोगादिनेत्युक्तम्।पुत्रजन्मविपत्तिभ्यां न परं सुखदुःखयोः इति ह्याहुः।न विचाल्यते योगप्रतिकूलमवसादं न गच्छतीत्यर्थः। दुःखसंयोगस्य वियोगस्तस्यासम्बन्धः अभाव इत्यर्थः। स च भावान्तरमिति ज्ञापनायाह दुःखसंयोगप्रत्यनीकाकारमिति। दुःखसंयोगस्य वियोगो यत्रेति व्यधिकरणबहुव्रीहौ फलितोक्तिरियम्। अथवा वियोगशब्दोऽत्र वियुज्यतेऽनेनेति करणार्थघञन्तो वियोगहेतुपर इति भावः। निर्विण्णचेतसेति पदच्छेदे संसारे तापत्रयेष्वेवेत्यध्याहारः स्यात् तत्तु सप्रयोजने योजनान्तरे सम्भवति न युक्तम् तस्मादनिर्निण्णचेतसेति पदच्छेदः। निश्चयशब्दोऽपि तेनैव हेतुसमर्पणेनान्वितः न तुयोक्तव्यः इत्यनेन निरर्थकान्वयप्रसङ्गात्। अनिर्विण्णत्वहेतुश्च निश्चयः पूर्वोक्तनिरतिशयपुरुषार्थत्वेनैव स्यात् तदेतदखिलमभिसन्धायाह स एवमिति।एवंरूपो निरतिशयपुरुषार्थरूप इत्यर्थः।योक्तव्यः इत्युक्तत्वात् आरम्भोपकारकत्वद्योतनायआरम्भदशायामित्युक्तम्।मनसा क्लिश्यमानस्तु समाधानं च कामयेत्। अनिर्वेदं मुनिर्गच्छन् कुर्यादेवात्मनो हितम्। इति ह्युच्यते।।अतो विरक्त्युपयुक्तो निर्वेदोऽन्यः अयं त्वन्यादृश इतिहृष्टचेतसेत्युक्तम्।योक्तव्यः कर्तव्य इत्यर्थः।
Sri Jayatritha
14th century CE · Dvaita Vedanta
A pre-eminent Dvaita scholar who wrote decisive commentaries defending Madhvacharya's views.
यत्र चैवात्मना इत्यत्र पदत्रयं व्याख्याति आत्मनेति। अन्वयापेक्षया व्युत्क्रमः। पश्यन्निति स्थानविवेकार्थमुक्तम्।
Sri Madhusudan Saraswati
16th century CE · Advaita
Wrote "Gudhartha Dipika", a celebrated commentary reconciling Advaita and Bhakti.
एवं सामान्येन समाधिमुक्त्वा निरोधसमाधिं विस्तरेण विवरीतुमारभते यत्र यस्मिन्परिणामविशेषे योगसेवया योगाभ्यासपाटवेन जाते सति चित्तं निरुद्धमेकविषयकवृत्तिप्रवाहरूपामेकाग्रतां त्यक्त्वा निरिन्धनाग्निवदुपशाम्यन्निर्वृत्तिकतया सर्ववृत्तिनिरोधरूपेण परिणतं भवति यत्र यस्मिंश्च परिणामे सति आत्मना रजस्तमोऽनभिभूतशुद्धसत्त्वमात्रेणान्तःकरणेनात्मानं प्रत्यक्चैतन्यं परमात्माभिन्नं सच्चिदानन्दघनमनन्तद्वितीयं पश्यन् वेदान्तप्रमाणजया वृत्त्या साक्षात्कुर्वन्नात्मन्येव परमानन्दघने तुष्यति न देहेन्द्रियसंघाते न वा तद्भोग्येऽन्यत्र। परमात्मदर्शने सत्यतुष्टिहेत्वभावात्तुष्यत्येवेति वा। तमन्तःकरणपरिणामं सर्वचित्तवृत्तिनिरोधरूपं योगं विद्यादिति परेणान्वयः। यत्र काल इति तु व्याख्यानमसाधु तच्छब्दानन्वयात्।
Sri Purushottamji
16th century CE · Vallabha Sampradaya
Son of Sri Vallabhacharya, who continued the Pushti Marg tradition of Gita exposition.
यस्मिन् योगे मनश्चञ्चलं न भवति स कीदृशो योगः इत्यपेक्षायामाह यत्रेति सार्धैस्त्रिभिः। यत्र यस्यामवस्थायां योगसेवया भावात्मकसंयोगरूपभगवत्सेवया स्वभोगादिभ्यो निरुद्धं चित्तमुपरमते संयोगावस्थाभावरूपसमीपे रमते। यत्र चावस्थाविशेषे विविधभावस्फूर्तावात्मना भावरूपेणाऽऽत्मानं भावरूपं पश्यन् आत्मन्येव भावरूप एव तुष्यतितं योगसंज्ञितं विद्यात् इति तुर्ये 23 श्लोकत्रयस्याऽन्वयः।
Sri Vallabhacharya
15th–16th century CE · Shuddhadvaita
Founded the Pushti Marg devotional tradition, focused on Krishna as the Supreme Being.
तमेव योगं स्वरूपतः फलतश्च लक्षयति यत्रेति सार्धैस्त्रिभिः। यत्र यस्मिन् काले योगतन्त्रसेवया निरुद्धं चित्तमुपरमते सर्वत इति स्वरूपलक्षणमुक्तम्। तथाच पातञ्जलसूत्रम् 1।2योगश्चित्तवृत्तिनिरोधः इति।
Swami Gambirananda
20th century CE · Ramakrishna Mission
Translated the Sanskrit commentaries of Shankara into precise English for modern readers.
6.20 Yatra, at the time when; cittam, the mind; niruddham, restrained, entirely prevented from wandering; uparamate, gets withdrawn; yoga-sevaya, through the practice of Yoga; ca, and; yatra eva, just when, at the very moment when; pasyan, by seeing, by experiencing; atmanam, the Self, which by nature is the supreme light of Consciousness; atmana, by the self, by the mind purified by concentration; tusyati, one remains contented, gets delighted; atmani eva, in one's own Self alone-. [Samadhi is of two kinds, Samprajnata and Asamprajnata. The concentration called right knowledge (Samprajnata) is that which is followed by reasoning, discrimination, blisss and unqualified egoism. Asamprajnata is that which is attained by the constant practice of cessation of all mental activity, in which the citta retains only the unmanifested impressions.-Cf. C. W., Vol. I, 1962, pp. 210, 212. According to A.G. the verses upto 6.20 state in a general way the characteristics of samadhi. From the present verse to the 25th, Asamprajnata-samadhi is introduced and defined.-Tr.] Besides,
Swami Adidevananda
20th century CE · Ramakrishna Mission
Ramakrishna Mission monk who translated the Gita Bhasya of Ramanuja into English.
6.20 - 6.23 Where, through the practice of Yoga, the mind, which is subdued everywhere by such practice, 'rejoices', i.e., rejoices in surpassing felicity; and where, perceiving through Yoga 'the self (Atman)' by 'the mind (Atman)' one is delighted by the self and indifferent to all other objects; and where, through Yoga, one 'knows', i.e., experiences that infinite happiness which can be grasped only by the 'intellect' contemplating on the self, but is beyond the grasp of the senses; where, remaining in that Yoga, one does not 'swerve from that state,' because of the overwhelming happiness that state confers; having gained which, he desires for it alone, even when he is awakened from Yoga, and does not hold anything else as a gain; where one is not moved even by 'the heaviest sorrow' caused by any berevaement like that of a virtuous son - let him know that disunion from all union with pain, i.e., which forms the opposite of union with pain, is called by the term Yoga. This Yoga must be practised with the determination of its nature as such from the beginning with a mind free from despondency, i.e., with zestful exaltation.
Frequently Asked Questions
What is Shankaracharya's commentary on BG 6.20?
यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति निरुद्धं सर्वतो निवारितप्रचारं योगसेवया योगानुष्ठानेन यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेन अन्तःकरणेन आत्मानं परं चैतन्यं ज्योतिःस्वरूपं पश्यन् उपलभमानः स्वे एव आत्मनि तुष्यति तुष्टिं भजते।।किञ्च
How many scholars have commented on this verse?
VaniSagar presents 18 authoritative commentaries on Bhagavad Gita 6.20, representing Advaita, Vishishtadvaita, Dvaita, Shuddhadvaita, Kashmir Shaivism, and modern Neo-Vedantic traditions.
Which commentary is best for a beginner?
For beginners, Swami Chinmayananda's and Swami Sivananda's commentaries are most accessible, written in clear modern English. For serious scholarly study, Sri Shankaracharya's commentary is the gold standard.