Bhagavad Gita 4.4 — Commentary
20 Scholarly Commentaries · Advaita · Vishishtadvaita · Dvaita · Bhakti
Shankaracharya · Ramanuja · Madhvacharya · Chinmayananda · Sivananda · and more
अर्जुन उवाच अपरं भवतो जन्म परं जन्म विवस्वतः। कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति
arjuna uvācha aparaṁ bhavato janma paraṁ janma vivasvataḥ katham etad vijānīyāṁ tvam ādau proktavān iti
"Later was Thy birth, and prior to it was the birth of Vivasvan (the Sun); how am I to understand that Thou hast taught this Yoga from the beginning?"
Scholar Commentaries (20)
Compare how different schools of Vedantic philosophy interpret this verse.
Sri Shankaracharya
8th century CE · Advaita Vedanta
The greatest Advaita philosopher, authored the definitive Sanskrit commentary (Bhasya) on the Gita.
अपरम् अर्वाक् वसुदेवगृहे भवतो जन्म। परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्य। तत् कथम् एतत् विजानीयाम् अविरुद्धार्थतया यः त्वमेव आदौ प्रोक्तवान् इमं योगं स एव इदानीं मह्यं प्रोक्तवानसि इति।।या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणाम् तां परिहरन् श्रीभगवानुवाच यदर्थो ह्यर्जुनस्य प्रश्नः श्रीभगवानुवाच
Sri Ramanuja
11th–12th century CE · Vishishtadvaita
Founder of Vishishtadvaita, emphasized Bhakti and the personal nature of Brahman.
अर्जुन उवाच कालसंख्यया अपरम् अस्मज्जन्मसमकालमं हि भवतो जन्म विवस्वतः च कालसंख्यया परम् अष्टाविंशतिचतुर्युगसंख्यातम् त्वम् एव आदौ प्रोक्तवान् इति कथम् एतद् असम्भावनीयं विशेषण यथार्थं जानीयाम्।ननु जन्मान्तरेण अपि वक्तुं शक्यम् जन्मान्तरकृतस्य महतां स्मृतिः च युज्यते। इति अत्र न कश्चिद् विरोधः। न च असौ वक्तारम् एनं वसुदेवतनयं सर्वेश्वरं न जानाति यत एवं वक्ष्यति परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्।।आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा। असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे।। (10।1213) इति। युधिष्ठिरराजसूयादिषु भीष्मादिभ्यः च असकृत् श्रुतम् कृष्ण एव हि लोकानामुत्पत्तिप्रभवाप्ययः। कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम्।। (महा0 सभा0 38।23) इत्येवमादिषु कृष्णस्य हि कृते इति कृष्णस्य शेषभूतम् इदं कृत्स्नं जगद् इत्यर्थः।अत्र उच्यते जानाति एव अयं भगवन्तं वसुदेवतनयं पार्थः। जानतः अपि अजानतः इव पृच्छतः अयम् आशयः निखिलहेयप्रत्यनीककल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्यसंकल्पस्य च अवाप्तसमस्तकामस्य कर्मपरवशदेवमनुष्यादिसजातीयं जन्म किम् इन्द्रजालादिवत् मिथ्या किं वा सत्यम् सत्यत्वे च कथं जन्मप्रकारः किमात्मकः अयं देहः कश्च जन्महेतुः कदा च जन्म किमर्थं वा जन्म इति परिहारप्रकारेण प्रश्नार्थो विज्ञायते।
Sri Madhavacharya
13th century CE · Dvaita Vedanta
Proponent of Dvaita philosophy emphasizing the eternal distinction between soul and God.
मयि सर्वाणि 3।30 इत्युक्तम्। तन्माहात्म्यमादितो ज्ञातुं पृच्छति अपरमिति।
Swami Chinmayananda
20th century CE · Neo-Vedanta
Modern Vedantic teacher whose commentary bridges ancient wisdom with contemporary life.
इस अध्याय के प्रारम्भिक श्लोक में घटनाओं के काल के विषयों में स्पष्ट विरोधाभास है। श्रीकृष्ण ने कहा कि उन्होंने सृष्टि के प्रारम्भ में इस योग को विवस्वान् को सिखाया। अर्जुन के लिये स्वाभाविक था कि वह श्रीकृष्ण को देवकी के पुत्र और गोकुल के मुरलीधर कृष्ण के रूप में ही जाने। श्रीकृष्ण की निश्चित जन्म तिथि थी और वे अर्जुन के ही समकालीन थे। इस दृष्टि से उनका सूर्य के प्रति उपदेश करना असंभव था क्योंकि सम्पूर्ण ग्रहों की सृष्टि के पूर्व सूर्य का अस्तित्व सिद्ध है।गीतोपदेष्टा भगवान् श्रीकृष्ण को कोई मनुष्य न समझ ले इसलिये व्यासजी भगवान् के ही मुख से घोषणा करवाते हैं कि
Swami Sivananda
20th century CE · Integral Yoga
Divine Life Society founder who synthesised Jnana, Bhakti, Karma, and Raja Yoga.
4.4 अपरम् later? भवतः Thy? जन्म birth? परम् prior? जन्म birth? विवस्वतः of Vivasvan? कथम् how? एतत् this? विजानीयाम् am I to understand? त्वम् Thou? आदौ in the beginning? प्रोक्तवान् taughtest? इत thus.Commentary Thy birth took place later in the hourse of Vasudeva Vivasvan or Vivasvat (the Sun) was born earlier in the beginning of evolution. How am I to believe that Thou taughtest this Yoga in the beginning to Vivasvan? and that Thou? the selfsame person? hast now taught it to me I am not able to reconcile this. Be kind enought to enlighten me? O my Lord.
Swami Ramsukhdas
20th century CE · Gita Press Gorakhpur
Prolific author and commentator whose Hindi commentaries are among the most widely read in India.
4.4।। व्याख्या--'अपरं भवतो जन्म परं जन्म विवस्वतः'--आपका जन्म तो अभी कुछ वर्ष पूर्व श्रीवसुदेवजीके घर हुआ है, पर सूर्यका जन्म सृष्टिके आरम्भमें हुआ था। अतः आपने सूर्यको कर्मयोग कैसे कहा था? अर्जुनके इस प्रश्नमें तर्क या आक्षेप नहीं है, प्रत्युत जिज्ञासा है। वे भगवान्के जन्म-सम्बन्धी रहस्यको सुगमतापूर्वक समझनेकी दृष्टिसे ही प्रश्न करते हैं; क्योंकि अपने जन्म-सम्बन्धी रहस्यको प्रकट करनेमें भगवान् ही सर्वथा समर्थ हैं।
Sri Harikrishnadas Goenka
19th–20th century CE · Gita Press
Co-founder of Gita Press Gorakhpur whose translations shaped how millions of Hindus read scripture.
भगवान्ने असङ्गत कहा ऐसी धारणा किसीकी न हो जाय अतः उसको दूर करनेके लिये शङ्का करता हुआसा अर्जुन बोला आपका जन्म तो अर्वाचीन है अर्थात् अभी वसुदेवके घरमें हुआ है और सूर्यकी उत्पत्ति पहले सृष्टिके आदिमें हुई थी। तब मैं इस बातको अविरुद्धार्थयुक्त ( सुसङ्गत ) कैसे समझूँ कि जिन आपने इस योगको आदिकालमें कहा था वही आप मुझसे कह रहे हैं।
Sri Anandgiri
13th century CE · Advaita
Pupil of Adi Shankaracharya's lineage who wrote important sub-commentaries (Tikas).
भगवति लोकस्यानीश्वरत्वशङ्कां निवर्तयितुं चोद्यमुद्भावयति भगवतेति। परिहारार्थं भगवतो मनुष्यवदवस्थितस्यानीश्वरत्वमुपेत्य तद्वचने शङ्कितविप्रतिषेधस्येतिशेषः। भगवतो निजरूपमुपेत्य नेदं चोद्यंकिंतु लीलाविग्रहं गृहीत्वेति वक्तुं चोद्यमिवेत्युक्तम्। एतच्छब्दार्थमेव स्फुटयति यस्त्वमिति।
Sri Dhanpati
14th century CE · Vedanta
Disciple of Vidyaranya who authored important sub-commentaries on Vedantic texts.
भगवति वासुदेवे मनुष्यवत् स्थिते याऽनीश्वरत्वासर्वज्ञत्वशङ्का मूर्खाणां तत्परिहाराय चोद्यमिव कुर्वन्नर्जुन उवाच। भवतो जन्मापरं अर्वाचीनं वसुदेवग्रहे। विवस्वतो जन्म परं पूर्वं सर्गादौ। तत्तस्मादेतज्ज्ञानं त्वमेवादौ प्रोक्तवानिति कथं विजानीयाम्। यत्तु अपरमतिहीनं न मनुष्यत्वात् परमुत्कृष्टं च देवत्वात् इति तत्तु त्वमादौ प्रोक्तवानिति वाक्यशेषविरोधादुपेक्ष्यम्। भाष्यस्योपलक्षणपरत्वेन तदविरोधेन वा ग्राह्यम्। आदित्यं प्रत्युपदेष्टा सर्वज्ञ ईश्वरस्त्वं तु तदन्यत्वादनीश्वरः। तत एवासर्वज्ञश्चेत्येवं तस्माद्विरुद्धमिदमहमादौ प्रोक्तवानिति।
Sri Neelkanth
17th century CE · Advaita
Wrote "Bhārata Bhāvadīpa", a verse-by-verse commentary on the Mahabharata including the Gita.
भगवद्देहस्य वसुदेवादुत्पत्तिं मन्वानोऽर्जुन उवाच अपरमिति। अपरमर्वाक्कालिकं परं बहुकालिकं विजानीयाम्। यद्यपि शब्दादयमर्थो ज्ञातस्तथापि विरुद्धस्य वाक्यस्याबोधकत्वात्कथमेतद्विजानीयामित्युक्तम्। पदयोजना स्पष्टा।
Sri Sridhara Swami
14th century CE · Advaita
Authored "Subodhinī", widely praised for its clarity and depth across all Vedantic schools.
भगवतो विवस्वन्तं प्रति योगोपदेशासंभवं पश्यन्नर्जुन उवाच अपरमिति। अपरमर्वाचीनं तव जन्म परं प्राक्कालीनं विवस्वतो जन्म तस्मात्तवाधुनिकत्वाच्चिरंतनाय विवस्वते त्वमादौ योगं प्रोक्तवानित्येतत्कथमहं विजानीयां ज्ञातुं शक्नुयाम्।
Sri Vedantadeshikacharya Venkatanatha
13th–14th century CE · Vishishtadvaita
Prolific philosopher-poet of Sri Vaishnavism who composed the "Tatparya Chandrika" on the Gita.
प्रसङ्गात्स्वस्वभावोक्तिः गी.सं.8 इति सङ्ग्रहश्लोकानुसारेणाह अस्मिन् प्रसङ्ग इति। कर्तव्यतादृढीकरणार्थकथाप्रसङ्गे इत्यर्थः।भगवदवतारयाथात्म्यं अकर्मवश्यत्वादिरूपम्।यथावदिति प्रातिभासिकत्वादिप्रतिक्षेपकप्रमाणोपपत्तिपूर्वकमित्यर्थः। परावरशब्दाभ्यां न दैवमानुषत्वरूपजातिवैषम्यमुच्यते तस्योपदेशविरोधित्वाभावात् देवानामपि देवत्वेन च कृष्णस्य विदितत्वात् जन्मशब्दस्य जननवाचितया साक्षाज्जातिवाचकत्वाभावात् आदाविति कालविरोधस्य च व्यक्तमुक्तत्वात्बहूनि मे व्यतीतानि 4।5यदा यदा हि 4।7युगे युगे 4।8 इत्येवमादिरूपस्योत्तरस्य च कालविरोधपरिहाररूपत्वात्। अतः परावरशब्दौ कालसङ्ख्योत्कर्षापकर्षविषयावित्यभिप्रायेणोक्तंकालसङ्ख्ययेति। अवरत्वहेतुतया विवक्षितं कालावधिं दर्शयतिअस्मदिति।समकालमिति अदूरविप्रकृष्टमित्यर्थः। त्वंशब्द इदानीन्तनत्वाभिप्रायतया विरोधपर इति द्योतनायत्वमेवेत्युक्तम्।कथमेतदित्याक्षेपसूचितमुक्तं असम्भावनीयमिति।विजानीयां इत्यत्रोपसर्गविवक्षितमाह यथार्थमिति। जन्मान्तरस्यैवाभावाद्वा जन्मान्तरानुभूतस्य स्मृत्या योगाद्वा वक्तुर्जन्मान्तरस्मृतिमत्तया श्रोतुरविदितत्वाद्वा खल्वेतज्जन्मावलम्बनेन विरोधचोद्यम्। न चैतदखिलमत्र सम्भवतीति प्रश्नमाक्षिपतिनन्विति।जन्मान्तरेणापि वक्तुं शक्यमिति नहि तदानीन्तनेन जन्मना तदानीन्तनायोपदेशो विरुद्ध इत्यर्थः।महतामिति न केवलमीश्वरस्य कृष्णस्य अन्येषामपि महतामिति भावः। श्रूयन्ते हि जातिस्मरवृत्तान्ताःजातिं स्मरति पौर्विकीम् 4।148 इति च मनुः।युज्यत इति अनुभवेन संस्कारे प्रागेव निष्पन्ने तस्य च अदृष्टविशेषादिवशादुद्बोधे जन्मान्तरानुभूतस्मृतौ न काचिदयुक्तिः यथा प्रथमस्तन्यपाने स्तन्यस्य पिपासाशान्तिहेतुत्वस्मृताविति भावः। महतामन्येषां स्मृतिः ईश्वरस्य तु प्राचीनवृत्तान्तगोचरः साक्षात्कारः स्मृतिरित्युपचर्यते।कश्चिदिति कालविप्रकर्षरूपो वा कारणाभावादिरूपो वेत्यर्थः। असाविति वृद्धोपसेवादिभिः श्रुतादिबहुलोऽर्जुनः।वक्तारमिति विवस्वते प्रोक्तवानहं इति स्वस्मै वक्तारम् यद्वा विवस्वते वक्तारमित्यर्थः।एनं वसुदेवतनयमिति। मानुषव्यापारजन्मभ्यां तिरोहितेश्वरभावमपीत्यभिप्रायः।सर्वेश्वरमिति विवस्वदादीनामपीश्वरमिति भावः यद्वा गोवर्धनोद्धरणाद्यतिमानुषवृत्तान्तैरवतारदशायामेव चतुर्भुजत्वादिना च व्यञ्जितेश्वरत्वमिति भावः। उक्तज्ञानसद्भावं कार्येण व्यवहारेण कारणेनोपदेशेन च स्थापयति यत एवमिति।एवं अनेकाप्ततमोपदेशादिभिरीश्वरत्वनिष्कर्षपूर्वकमित्यर्थः।अर्जुनस्य स्ववाक्येन स्वोक्तमहर्षिगणोपदेशेन च ज्ञानानुमानमुक्तम् भारतकथावगतेन बन्धूपदेशेन च ज्ञानवत्तामाह युद्धिष्ठिरेति। बहुष्वपि वृत्तान्तेष्वाप्ततमेभ्यो बहुभ्यो बहुधा श्रुतमित्यर्थः।कृष्ण एवेति स्थितिहेतुत्वेन प्रसिद्धः स एवोत्पत्त्यादेरपि हेतुः न तु ब्रह्मरुद्रादिः प्रधानादिर्वा यद्वा लौकिकैः पुरुषैर्वसुदेवतनयतया प्रतीयमानः कृष्ण एवेत्यर्थः। हिशब्दः एको ह वै नारायण आसीत् महो.1।1 इत्यादिश्रुतिप्रसिद्धिं दर्शयति।लोकानामिति।लोकस्तु भुवने जने अमरः3।3।2 तत्रान्यतरविवक्षायामितरदार्थम् उत्पत्त्यप्ययशब्दावत्रोत्पादकनाशकपरौ। चकारः प्रसिद्धिप्रकर्षादनुक्तं स्थितिहेतुत्वादिकं समुच्चिनोति। एवं यतो वा इमानि भूतानि तै.उ.3।1।1 इत्यादिना ब्रह्मलक्षणतयोक्तं सर्वकारणत्वमुक्तम्। अत एव हिपरं ब्रह्म इत्यर्जुनोक्तिः कृष्णस्य हीत्यत्र हिशब्देन पतिं विश्वस्य तै.ना.10।1 करणाधिपाधिपः श्वे.उ.6।9 इत्यादिप्रसिद्धिः सूच्यते।कृते इत्यस्य अनेकार्थसाधारणत्वात्तादर्थ्यपरत्वव्यञ्जनायाहकृष्णस्य शेषभूतमिति। अत्र च्विप्रत्ययाभावात् स्वाभाविकत्वं सूचितम्दासभूताः स्वतः सर्वे पां.रा. इत्यादिवत्। कृष्णस्य कृते भूतमिति कृष्णार्थमुत्पन्नं सत्तायोगि चेत्यर्थः।जन्माद्यस्य यतः ब्र.सू.1।1।3 इमानि भूतानि तै.उ.3।1।1 इत्यादिवदत्रापीदंशब्दः तत्तत्प्रमाणसिद्धविचित्रचेतनाचेतनसमुदायपरः पूर्वार्थोक्तसृज्यत्वसंहार्यत्वादिप्रकारानुवादपरो वा। तेन तदधीनोत्पत्त्यादिमत्त्वात्तादर्थ्ये हेतुरुक्तो भवतिकस्योदरे हरविरञ्चमुखप्रपञ्जः को रक्षतीममजनिष्ट च कस्य नाभेः। क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः केन वैष परवानिति शक्यशङ्कः इत्यादिवत्।अथ चोद्यवादिनोक्तमभ्युपगमेन प्रतिवक्ति जानात्येवेति। अवधारणेन नास्मिन्नंशे विवाद इति सूचितम्। अयमिति निर्देशः पूर्ववच्छ्रुतार्थत्वं सूचयति। वसुदेवसूनुंभगवान् इति जानातीत्यर्थः। नामपरो गुणपरो वाऽत्र भगवच्छब्दः। वसुदेवसूनुपार्थशब्दाभ्यां मातुलसुतत्वपैतृष्वसेयत्वसूचनेन इतरपुरुषवदीश्वरत्वादितिरोधायकप्राकृतसम्बन्धे सत्यपि सुकृतवशादुपदेशवशाच्च जानातीत्यभिप्रेतम्। तर्हि प्रश्नो निरवकाश इत्यत्राह जानतोऽपीति। नात्यन्ताज्ञातमनेन पृच्छ्यते ज्ञातमेव विशेषान्तरजिज्ञासया परिपृष्टमिति भावः।अजानत इवेत्यनेन विनयगर्भपरिप्रश्नप्रकारश्च सूचितः। अज्ञातांशबुभुत्सां जन्मादेर्मिथ्यात्वादिशङ्कां च जनयन्तो भगवति ज्ञातांशविशेषा उपादीयन्तेनिखिलेत्यादिषष्ठ्यन्तपदैः।निखिलहेयप्रत्यनीकेति यः परगतमपि जन्मजरादिहेयं निवर्तयति स कथं स्वयं तदेवोपाददीतेति भावः।कल्याणैकतानस्येति स्वरूपानन्दतृप्तस्य किं जन्मना इति भावः।सर्वेश्वरस्येति यदि कश्चित्स्वच्छन्दोऽस्य नियन्ता स्यात्तदा जन्मादि घटेत न च सोऽस्तीत्याशयः।सर्वज्ञस्येति यद्यसौ स्वस्य हितमहितं च न जानाति तदा हि स्वेच्छयैव बालादीनामग्न्यादिस्पर्शवज्जन्मादिपरिग्रहः स्यादित्यभिप्रायः।सत्यसङ्कल्पस्येति हिताहितज्ञाने सत्यपि कश्चिच्छुष्के पतिष्यामीति कर्दमे पतति न चासौ तथेति हृदयम् यद्वा लोकरक्षणाद्यर्थमेवावतार इति हि परमोत्तरं स्यात् तदप्ययुक्तं सङ्कल्पमात्रेण रक्षणाद्युपपत्तेरिति भावः।अवाप्तसमस्तकामस्येति यदि साध्यं किञ्चित्प्रयोजनं स्यात् तदा तदर्थं जन्मादि परिगृह्येत न च तदप्यस्तीति भावः। एवं च सतीश्वरो न वस्तुतो जन्मादिमान् अकर्मवश्यत्वात् मुक्तात्मवत्इत्यन्वयेन यो जन्मादिमान् स कर्मवश्यः यथा संसारी इति व्यतिरेकेण चैकमनुमानम् तत्रैव पक्षसाध्यादौ जन्मकारणभूतेश्वरादिनियोगाविषयत्वादिति द्वितीयम् द्वयोरप्यनुमानयोः यो यत्कारणरहितः न स तत्कार्यवान् यथा सम्प्रतिपन्न इति सामान्यतो वा व्याप्तिः सर्वेश्वरत्वादित्युक्ते तु न दृष्टान्तः केवलव्यतिरेकिविवक्षा तु देहपरिग्रहरहितघटादिसपक्षसद्भावात् केवलव्यतिरेकिप्रामाण्यस्य च सामान्यतो यामुनाचार्यादिभिर्निरस्तत्वादयुक्ता। एवं देहपरिग्रहाद्यभावे सङ्कुचितज्ञानशून्यत्वात् प्रतिहतसङ्कल्परहितत्वात् अपूर्णकामत्वरहितत्वात् साध्यप्रयोजनरहितत्वादिति मुक्तात्मघटादिदृष्टान्तेन हेतवः। यद्वा परमसाम्यापन्नान् मुक्तानेव दृष्टान्तीकृत्य सर्वज्ञत्वात्सत्यसङ्कल्पत्वादवाप्तसमस्तकामत्वादित्येव हेतवः।एवं यदि जन्मादयः स्युः तदा कर्मवश्यत्वमनीश्वरत्वमसर्वज्ञत्वमसत्यसङ्कल्पत्वमपूर्णकामत्वं च क्षेत्रज्ञवत्स्यादिति प्रसङ्गाश्च विवक्षिताः।निखिलहेय इत्याद्युक्तोभयलिङ्गत्वे च हेतवः सर्वेश्वरत्वादयः। पूर्वोक्ताकारविरोधितया मिथ्यात्वशङ्काहेतुः सामान्यतो विदितो जन्मप्रकार उच्यते कर्मपरवशदेवमनुष्यादिसजातीयमिति कर्मपरवशा देवमनुष्यादयः तेषां सजातीयं तज्जन्मसमानतया प्रतीयमानमित्यर्थः। यद्वा जन्मशब्दोऽत्र जायमानविग्रहपरः ईश्वरेण परिगृह्यमाणत्वात् इन्द्रजालादिवदित्युक्तम्। स्वेच्छया परेषां विचित्रभ्रमजननं हीन्द्रजालम् तेनात्र तत्प्रतिभानलक्षणा। आदिशब्देन शैलूषभूमिकापरिग्रहादि गृह्यते। मिथ्यात्वपक्षे न तत्र कश्चित्प्रकारो निरूपणीय इति कृत्वा सत्यत्वपक्षे शङ्कते सत्यत्व इति।कथमिति किं पारमेश्वरस्वभावपरित्यागेन अन्यथा वा इत्यर्थः।किमात्मक इति किं त्रिगुणात्मकः उताप्राकृतः इत्यर्थः।अयमिति भूतसङ्घसंस्थानवत्प्रतीयमान इति भावः।देह इति उपचयरूपतया ह्युपलभ्यत इति भावः।कश्च जन्महेतुरिति किं सङ्कल्पमात्रं उतेश्वरस्यापि स्वेच्छापरिगृहीते पुण्यपापे इत्यर्थः।कदा चेति किं पुण्यपापविपाककाले उत धर्मग्लान्यादिकाले इत्यर्थः।किमर्थं चेति किं सुखदुःखोपभोगार्थम् उत साधुपरित्राणाद्यर्थं इत्यर्थः। इत्ययमाशय इत्यन्वयः। ननुअवरम् इतिश्लोके व्याघातमात्रमेव चोद्यते तत्र बहुषु प्रश्नेष्वाशय इति कुतोऽवगतं इत्यत्राह परिहारेति।अयमभिप्रायः न ह्यन्यस्य प्रश्ने तदन्यविषयतया प्रतिवचनमुपपद्यते तथा सति प्रतिवक्तुरनभिप्रायज्ञतादिप्रसङ्गात् अतो यावद्विषयं प्रतिवचनं तावद्विषय एवायं प्रश्न इत्यभ्युपगन्तव्यम्। अत्र च प्रतिवचने चतुर्भिः श्लोकैर्जन्मसत्यत्वं जन्मप्रकारः देहयाथात्म्यं जन्मनो हेतुकालप्रयोजनानि च क्रमात् प्रतिपाद्यानि प्रतीयन्ते अतस्तान्येव प्रष्टव्यतयाऽभिप्रेतानीति।
Sri Jayatritha
14th century CE · Dvaita Vedanta
A pre-eminent Dvaita scholar who wrote decisive commentaries defending Madhvacharya's views.
ननुनत्वेवाहं 2।12 इत्यादिना सर्वप्रकारेणोत्पत्तिविनाशराहित्यमुक्तं भगवतः तच्छ्रुत्वा कथंअपरं इति पृच्छति इत्यत आह मयीति। तन्माहात्म्यमित्युपलक्षणम्। आदितः प्रमितिकारणतः।मयि सर्वाणि 3।30 इत्यत्र परमेश्वरस्य माहात्म्यं पूज्यत्वादिलक्षणमुक्तम्। अर्जुनस्य पूजकत्वादिकम्। तमिममीश्वरजीवयोः पूज्यपूजकत्वादिना भगवताऽङ्गीकृतं भेदं प्रमाणेन ज्ञातुमेवं पृच्छतीत्यर्थः।
Sri Madhusudan Saraswati
16th century CE · Advaita
Wrote "Gudhartha Dipika", a celebrated commentary reconciling Advaita and Bhakti.
या भगवति वासुदेवे मनुष्यत्वेनासर्वज्ञत्वानित्यत्वाशङ्का मूर्खाणां तामपनेतुमनुवदन्नर्जुन आशङ्कते अपरमल्पकालीनमिदानींतनं वसुदेवगृहे भवतो जन्म शरीरग्रहणं विहीनं च मनुष्यत्वात् परं बहुकालीनं सर्गादिभवं उत्कृष्टं च देवत्वात् विवस्वतो जन्म। अत्रात्मनो जन्माभावस्य प्राग्व्युत्पादितत्वाद्देहाभिप्रायेणैवार्जुनस्य प्रश्नः। अतः कथमेतद्विजानीयामतिविरुद्धार्थतया। एतच्छब्दार्थमेव विवृणोति त्वमादौ प्रोक्तवानिति। त्वमिदानींतनो मनुष्योऽसर्वज्ञः सर्गादौ पूर्वतनाय सर्वज्ञायादित्याय प्रोक्तवानिति विरुद्धार्थमेतदिति भावः। अत्रायं निर्गलितोऽर्थः एतद्देहावच्छिन्नस्य तव देहान्तरावच्छेदेन वा आदित्यं प्रत्युपदेष्टृत्वं एतद्देहेन वा। नाद्यः। जन्मान्तरानुभूतस्यासर्वज्ञेन स्मर्तुमशक्यत्वात्। अन्यथा ममापि जन्मान्तरानुभूतस्मरणप्रसङ्गः। तव मम च मनुष्यत्वेनासर्वज्ञत्वाविशेषात्। तदुक्तमभियुक्तैःजन्मान्तरानुभूतं च न स्मर्यते इति। नापि द्वितीयः। सर्गादाविदानींतनस्य देहस्यासद्भावात्। तदेवं देहान्तरेण सर्गादौ सद्भावसंभवेऽपीदानीं तत्स्मरणानुपपत्तिः। अनेन देहेन स्मरणोपपत्तावपि सर्गादौ सद्भावानुपपत्तिरित्यसर्वज्ञत्वानित्यत्यत्वाभ्यां द्वावर्जुनस्य पूर्वपक्षौ।
Sri Purushottamji
16th century CE · Vallabha Sampradaya
Son of Sri Vallabhacharya, who continued the Pushti Marg tradition of Gita exposition.
एवं श्रुत्वाऽर्जुनो भगवतोऽलौकिकस्वरूपत्वाद्विवस्वतो लौकिकत्वात् किमर्थं भक्तिं विहाय कर्मयोगं भगवानुक्तवानिति जिज्ञासया पृच्छति अपरमिति। मवतो जन्म प्राकट्यमपरं न विद्मते परमुत्कृष्टं पूर्वं वा यस्मात्तादृशम् विवस्वतो जन्म परमुत्कृष्टं पश्चाज्जातं वा इति हेतोस्त्वमादौ तस्मै योगं कथं किमभिप्रायेण प्नोक्तवानेतदहं विजानीयां जानामि तथा वदेति भावः।
Sri Vallabhacharya
15th–16th century CE · Shuddhadvaita
Founded the Pushti Marg devotional tradition, focused on Krishna as the Supreme Being.
अत्र भगवदवतारयाथात्म्यगर्भितं प्रश्नं चिकीर्षुर्विवस्वन्तं प्रति त्वदुपदेशो न सम्भवतीति मिषेणार्जुन उवाच अपरमिति। अर्वाचीनं परमं कालीनं सूर्यस्य जन्म। अत एतत्सम्भावनारूपं कथं विजानीयामिति।
Swami Gambirananda
20th century CE · Ramakrishna Mission
Translated the Sanskrit commentaries of Shankara into precise English for modern readers.
4.4 Bhavatah, Your; janma, was aparam, later, in the abode of Vasudeva; (whereas) the birth vivasvatah, of Visvasvan, the Sun; was param, earlier, in the beginning of creation. Therefore, katham, how; vijanyam, am I to understand; etat, this, as not inconsistent; iti, that; tvam, You, yourself; who proktavan, insturcted this Yoga; adau, in the beginning, are the same person who are now teaching me? By way of demolishing the doubt of fools with regard to Vasudeva, that He has no God-hood and omniscience-to which very purpose was Arjuna's estion-
Dr. S. Sankaranarayan
20th century CE · Academic / Shaiva
Scholar-practitioner who authored commentaries uniting rigorous Indology with spiritual practice.
4.4 Even though he knows the nature of the Lord, Arjuna asks this estion in order to publisize it to the world.
Swami Adidevananda
20th century CE · Ramakrishna Mission
Ramakrishna Mission monk who translated the Gita Bhasya of Ramanuja into English.
4.4 Arjuna said According to the calculation of time, your birth was indeed later, contemporaneous with our births. And the birth of Vivasvan was at an earlier time, reckoned as twenty-eight cycles of units of four Yugas each. How can I understand as true that you taught it in the beginning? Now, there is no contradiction here, for it was ite possible that He had taught Vivasvan in a former birth. The memory of what was done in former births is ite natural for great men. This should not be taken to mean that Arjuna does not know the son of Vasudeva, the speaker, as the Lord of all. Because he (Arjuna) says later on: 'You are the Supreme Brahman, the Supreme Light and the Supreme Purifier. All the seers proclaim You as the eternal Divine Purusa, the Primal Lord, unborn and all-pervading. So also proclaim the divine sage Narada, Asita, Devala and Vyasa. You Yourself also are saying this to me' (10.12-13.) Arjuna had heard repeatedly from Bhisma and others during the Rajasuya sacrifice of Yudhisthira, 'Krsna alone is the cause of creation and submergence of all the worlds. This universe, consisting of things both animate and inanimate, was created for the sake of Krsna' (Ma. Bha., 2.38.23) 'The entire universe is subservient to Krsna' is the meaning of 'For the sake of Krnsa'. This apparent contradiction may be explained as follows: Arjuna surely knows the son of Vasudeva as the Bhagavan. Though knowing Him as such, he estions as if he did not know Him. This is his intention. Can the birth of the Lord of all, who is antagonistic to all that is evil and wholly auspicious, omniscient, whose will is always true and whose desires are fulfilled - can the birth of such a Person be of the same nature as that of the gods, men etc., who are subject to Karma? Or can it be false like the illusions of a magical show? Or could it be real? In other words, is the birth of the Supreme Being as the incarnate a real fact or a mere illusory phenomenon produced by a magician's art? If His birth is real, what is the mode of His birth? What is the nature of His body? What is the manner of His birth? What is the nature of this body of His? What is the casue of His birth? To what end is He born? The way in which Sri Krsna answers Arjuna's estion, justifies the construing of his estion in this way.
Frequently Asked Questions
What is Shankaracharya's commentary on BG 4.4?
अपरम् अर्वाक् वसुदेवगृहे भवतो जन्म। परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्य। तत् कथम् एतत् विजानीयाम् अविरुद्धार्थतया यः त्वमेव आदौ प्रोक्तवान् इमं योगं स एव इदानीं मह्यं प्रोक्तवानसि इति।।या वासुदेवे अनीश्वरासर्वज्ञाशङ्का मूर्खाणाम् तां परिहरन् श्रीभगवानुवाच यदर्थो ह्यर्जुनस्य प्रश्नः श्रीभगवानुवाच
How many scholars have commented on this verse?
VaniSagar presents 20 authoritative commentaries on Bhagavad Gita 4.4, representing Advaita, Vishishtadvaita, Dvaita, Shuddhadvaita, Kashmir Shaivism, and modern Neo-Vedantic traditions.
Which commentary is best for a beginner?
For beginners, Swami Chinmayananda's and Swami Sivananda's commentaries are most accessible, written in clear modern English. For serious scholarly study, Sri Shankaracharya's commentary is the gold standard.