Preserving the eternal wisdom of all sacred traditions — 100% ad-free & open-source.
Bhagavad Gita · BG 11.40

Bhagavad Gita 11.40 — Commentary

19 Scholarly Commentaries · Advaita · Vishishtadvaita · Dvaita · Bhakti

Shankaracharya · Ramanuja · Madhvacharya · Chinmayananda · Sivananda · and more

Sanskrit Original — मूल श्लोक

नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व। अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः

namaḥ purastād atha pṛiṣhṭhatas te namo ’stu te sarvata eva sarva ananta-vīryāmita-vikramas tvaṁ sarvaṁ samāpnoṣhi tato ’si sarvaḥ

"Salutations to You in front and behind! Salutations to You on every side! O All! You, infinite in power and prowess, pervade all; therefore You are all."

Scholar Commentaries (19)

Compare how different schools of Vedantic philosophy interpret this verse.

Sri Shankaracharya

8th century CE · Advaita Vedanta

Advaita

The greatest Advaita philosopher, authored the definitive Sanskrit commentary (Bhasya) on the Gita.

,नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम्? अथ पृष्ठतः ते पृष्ठतः अपि च ते नमोऽस्तु? ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्व। अनन्तवीर्यामितविक्रमः अनन्तं वीर्यम् अस्य? अमितः विक्रमः अस्य। वीर्यं सामर्थ्यं विक्रमः पराक्रमः। वीर्यवानपि कश्चित् शत्रुवधादिविषये न पराक्रमते? मन्दपराक्रमो वा। त्वं तु अनन्तवीर्यः अमितविक्रमश्च इति अनन्तवीर्यामितविक्रमः। सर्वं समस्तं जगत् समाप्नोषि सम्यक् एकेन आत्मना व्याप्नोषि यतः? ततः तस्मात् असि भवसि सर्वः त्वम्? त्वया विनाभूतं न किञ्चित् अस्ति इति अभिप्रायः।।यतः अहं त्वन्माहात्म्यापरिज्ञानात् अपराद्धः? अतः --,

Sri Ramanuja

11th–12th century CE · Vishishtadvaita

Vishishtadvaita

Founder of Vishishtadvaita, emphasized Bhakti and the personal nature of Brahman.

अनन्तवीर्यामितविक्रमः त्वं सर्वम् आत्मतया समाप्नोषि ततः सर्वः असि? यतः त्वं सर्वं चितचिद्वस्तुजातम् आत्मतया समाप्नोषि। अतः सर्वस्य चिदचिद्वस्तुजातस्य त्वच्छरीरतया त्वत्प्रकारत्वात् सर्वप्रकारः त्वम् एव सर्वशब्दवाच्यः असि इत्यर्थः।त्वमक्षरं सदसत् (गीता 11।37)वायुर्यमोऽग्निः (गीता 11।39) इत्यादिसर्वसामानाधिकरण्यनिर्देशस्य आत्मतया व्याप्तिः एव हेतुः इति सुव्यक्तम् उक्तम्।त्वया ततं विश्मनन्तरूप (गीता 11।38) सर्वं समाप्नोषि ततोऽसि सर्वः।।इति च।

Sri Madhavacharya

13th century CE · Dvaita Vedanta

Dvaita

Proponent of Dvaita philosophy emphasizing the eternal distinction between soul and God.

कथं स्थाने इति तदाह -- कस्मादित्यादिना। पूर्णश्चासावात्मा चेति महात्मा। आत्मशब्दश्चोक्तो भारते -- यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते इति। तत्परं सदसतः परम्।असच्च सच्चैव च यद्विश्वं सदसतः परम्। [म.भा.1।1।23] इति भारते।

Swami Chinmayananda

20th century CE · Neo-Vedanta

Neo-Vedanta

Modern Vedantic teacher whose commentary bridges ancient wisdom with contemporary life.

परमात्मा सर्वत्र व्याप्त है अन्तर्बाह्य? अधउर्ध्व? समस्त दिशाओं में व्याप्त है। उससे रिक्त कोई स्थान नहीं है। यह कोई अकेले अर्जुन का मौलिक विचार नहीं है। उपनिषद् के महान् ऋषिगण तो इस अनुभव में अखण्ड वास करते थे।जिस परमात्मा को अर्जुन अपने मन से सब दिशाओं में प्रणाम करता है? वह परमात्मा न केवल आकाश के समान सर्वव्यापक ही है? वरन् वह सम्पूर्ण सार्मथ्य एवं विक्रम का स्रोत भी है। जहाँ कहीं भी कार्य़ करने की प्रेरणा या सफलता पाने की क्षमता दृष्टिगोचर होती हैं? वह सब अनन्तवीर्य और अमितविक्रम परमात्मा की ही एक झलक है? किरण है। परमात्मा सत्स्वरूप से सर्वत्र समस्त वस्तुओं और प्राणियों में विद्यमान है क्योंकि सत् के बिना किसी भी वस्तु का अस्तित्व नहीं हो सकता? इसलिए? वस्तुत परमात्मा ही सर्वरूप है। जल ही सब तरंगें हैं और मिट्टी ही सब घट है।क्योंकि आपके महात्म्य के अज्ञान के कारण? पूर्व में मैंने आपके प्रति अपराध किया है? इसलिए

Swami Sivananda

20th century CE · Integral Yoga

Integral Yoga

Divine Life Society founder who synthesised Jnana, Bhakti, Karma, and Raja Yoga.

11.40 नमः salutation? पुरस्तात् (from) front? अथ also? पृष्ठतः (from) behind? ते to Thee? नमः salutation? अस्तु be? ते to Thee? सर्वतः on every side? एव even? सर्व O all? अनन्तवीर्य infinite power? अमितविक्रमः infinite in prowess? त्वम् Thou? सर्वम् all? समाप्नोषि pervadest? ततः wherefore? असि (Thou) art? सर्वः all.Commentary The words I prostrate myself before Thee? behind Thee and on every side indicate the allpervading nature of the Lord. How can the allpervading Self have front and back Finite objects only have front and back sides Arjuna imagined that there were front and back sides to the Lord and so prostrated himself in his extreme faith and devotion.O All Nothing exists without Thee. As the Self is allpervading? He is called the All. There is nothing except the Self.On every side? as Thou art present everywhere or in all arters.One may be powerful but may not possess the courage to kill the enemies or he may be endowed with a mild form of courge but the Lord is infinite in courage and infinite in power.Pervadest by Thy One Self.

Swami Ramsukhdas

20th century CE · Gita Press Gorakhpur

Bhakti

Prolific author and commentator whose Hindi commentaries are among the most widely read in India.

व्याख्या--'नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व'--अर्जुन भयभीत हैं। मैं क्या बोलूँ-- यह उनकी समझमें नहीं आ रहा है। इसलिये वे आगेसे, पीछेसे सब ओरसे अर्थात् दसों दिशाओंसे केवल नमस्कारहीनमस्कार कर रहे हैं।

Sri Harikrishnadas Goenka

19th–20th century CE · Gita Press

Vaishnava

Co-founder of Gita Press Gorakhpur whose translations shaped how millions of Hindus read scripture.

तथा --, आपको आगसे अर्थात् पूर्वदिशामें और पीछेसे भी नमस्कार है। हे सर्वरूप आपको सब ओरसे नमस्कार है अर्थात् सर्वत्र स्थित हुए आपको सब दिशाओंमें नमस्कार है। आप अनन्तवीर्य और अपार पराक्रमवाले हैं। वीर्य सामर्थ्यको कहते हैं और विक्रम पराक्रमको। कोई व्यक्ति सामर्थ्यवान् होकर भी शस्त्रादि चलानेमें पराक्रम नहीं दिखा सकता? अथवा मन्दपराक्रमी होता है। परन्तु आप तो अनन्तवीर्य और अमित पराक्रमसे युक्त हैं। इसलिये आप अनन्तवीर्य और अमितपराक्रमी हैं। आप अपने एक स्वरूपसे सारे जगत्को व्याप्त किये हुए स्थित हैं? इसलिये आप सर्वरूप हैं? अर्थात् आपसे अतिरिक्त कुछ भी नहीं है।,

Sri Anandgiri

13th century CE · Advaita

Advaita

Pupil of Adi Shankaracharya's lineage who wrote important sub-commentaries (Tikas).

विधान्तरेण भगवन्तं स्तुत्या नमस्कुर्वन्नभिमुखीकरोति -- तथेति। यस्यां दिशि सवितोदेति सा पूर्वा दिगुच्यते। तस्यां व्यवस्थितं सर्वं त्वमेव तस्मै ते तुभ्यं ननोऽस्त्वित्याह -- नम इति। अथशब्दः समुच्चये। पश्चादपि स्थितं सर्वं त्वमेव तस्मै ते तुभ्यं नमोऽस्त्वित्याह -- अथेति। किं बहुना यावन्त्यो दिशस्तत्र सर्वत्र यद्वर्तते तदशेषं त्वमेव तस्मै तुभ्यं प्रह्वीभावः स्यादित्याह -- नमोऽस्त्विति। फलितं सर्वात्मत्वं सूचयति -- हे सर्वेति। वीर्यविक्रमयोर्न पौनरुक्त्यमित्याह -- वीर्यमित्यादिना। वीर्यवतो विक्रमाव्यभिचारादर्थपौनरुक्त्यमाशङ्क्याह -- वीर्यवानिति। भगवति लोकतो विशेषमाह -- त्वं त्विति। उक्तं सर्वात्मत्वं प्रपञ्चयति -- सर्वमिति। सप्रपञ्चत्वं वारयति -- त्वयेति।

Sri Dhanpati

14th century CE · Vedanta

Advaita

Disciple of Vidyaranya who authored important sub-commentaries on Vedantic texts.

पुरस्तात् पूर्वस्यां दिशि तत्तद्रूपेण स्थिताय ते तुभ्यम्। अथ पृष्ठस्ते तुभ्यं नमोस्तु। सर्वत एव सर्वासु दिक्षु स्थिताय। हे सर्व। यद्वा पुरस्तात्कर्मणमादौ पृष्ठस्तेषां समाप्तौ सर्वतः मध्येऽपि ते नमोस्ित्वति। अस्मिन्पक्षे कर्मणामित्यध्याहारदोषः सर्वत इत्यादि संकोचे मानाभावश्च बोध्यः। हे सर्वेत्युक्तं निरुपयति। अनन्तं सामर्थ्य यस्य? अमितः पराक्रमः शस्त्रादिविषये यस्य अनन्तवीर्यश्चासौ अमितविक्रमश्च सः त्वं हेऽनन्तवीर्येति व्यस्तपक्षस्त्वाचार्यैः गौरवात् विशेषाभावाच्च न प्रदर्शितः। सर्वमखिलं विश्वं सम्यगाप्नोषि व्याप्नोषि। यतस्ततोऽसि सर्वः। त्वया विना भूतं न किंचिदस्तीत्यर्थः।

Sri Neelkanth

17th century CE · Advaita

Advaita

Wrote "Bhārata Bhāvadīpa", a verse-by-verse commentary on the Mahabharata including the Gita.

हे अनन्तवीर्य? यतः सर्वं समाप्नोषि एकीभावेनासमन्ताद्व्याप्नोषि ततो हेतोः सर्व इति तव नाम। पुरस्तात्कर्मणामादौ। पृष्ठतस्तेषां समाप्तौ। सर्वतो मध्येऽपि ते नमोऽस्तु।

Sri Sridhara Swami

14th century CE · Advaita

Advaita

Authored "Subodhinī", widely praised for its clarity and depth across all Vedantic schools.

किंच -- नम इति। हे सर्व सर्वात्मन्? सर्वास्वपि दिक्षु तुभ्यं नमोऽस्तु। सर्वात्मकत्वमुपपादयन्नाह। अनन्तं वीर्यं सामर्थ्यं यस्य? तथाप्यमितो विक्रमः पराक्रमो यस्य सः? एंवभूतस्त्वं सर्वं विश्वं सम्यगन्तर्बहिश्च सर्वात्मधापि समाप्नोषि व्याप्नोषि सुवर्णमिव कटककुण्डलादि स्वकार्यं व्याप्य वर्तसे सर्वरूपोऽसि।

Sri Vedantadeshikacharya Venkatanatha

13th–14th century CE · Vishishtadvaita

Vishishtadvaita

Prolific philosopher-poet of Sri Vaishnavism who composed the "Tatparya Chandrika" on the Gita.

।। 11.40 इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्। एकं सद्विप्रा बहुधा वन्दन्त्यग्निं यमं मातरिश्वानमाहुः [ऋक्सं.2।3।22।6तै.ब्रा.3।7।9।3] तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः। तदेव शुक्रममृतं तद्ब्रह्म तदापः स प्रजापतिः [तै.ना.1।7] इत्यादिश्रुत्युपबृंहणाभिप्रायेणत्वया ततं विश्वम् [11।38] इति निर्दिष्टं शरीरात्भावंवायुर्यमोऽग्निः इत्यादिसामानाधिकरण्यहेतुत्वेनाहअतस्त्वमेवेति। सम्बन्धिविशेषानुपादानात्प्रपितामहत्वं सर्वप्रतिसम्बन्धिकमित्यभिप्रायेणाहसर्वेषां प्रपितामहस्त्वमेवेति। चशब्दः पितामहादिसमुच्चयार्थक इत्यभिप्रयन्नाहपितामहादयश्चेति। सर्वप्रपितामहस्य कस्यचिदभापेन तच्छरीरकत्वेन प्रपितामहत्वायोगादन्यथा तदाहसर्वासां प्रजानां पितर इत्यादिना। प्रजापतयः दक्षादयः। चशब्दसमुच्चितपितामहत्वं तु तच्छरीरकतयेत्याहपितामहादीनामात्मतयेति। नमो नमस्तेऽस्तु इत्यादिनोक्तनमने विश्वरूपप्रदर्शनप्रकटितपरत्वसौलभ्यानुभवजनितभयहर्षावेव हेतुरित्यभिप्रायेणाह -- अत्यद्भुताकारमिति।अनन्तस्य वीर्यमिव वीर्यं यस्येत्यन्यथाप्रतिपत्तिवारणायाहअपरिमितवीर्येति। अमितशब्दस्याप्रमितपरत्वे शास्त्रादिसिद्धिनिरोधात्अपरिमितपराक्रम इत्युक्तम्।सर्वं समाप्नोपि इत्यत्राकाशादिवद्व्याप्तिव्युदासाय अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा [चित्यु.11।1] इत्यादिश्रुत्युक्तात्मत्वपर्यवसितनियमनार्थव्याप्तिर्विवक्षितेत्यभिप्रयन्नाह -- सर्वमात्मतयेति। पुरुष एवेदं सर्वम् [ऋक्सं.8।4।17।2यजुस्सं.31।2]आत्मैवेदं सर्वं [छां.उ.7।25।2]नारायण एवेदं सर्वम् [ना.उ.2] इत्यादिश्रुतिस्थसर्वशब्दसामानाधिकरण्योपबृंहणायसर्वत एव सर्व इति पूर्वोक्तसर्वशब्दसामानाधिकरण्यं न बाधाद्यर्थम्? अपितु शरीरात्मभावनिबन्धनविशिष्टैक्यपरमित्युक्तमित्यभिप्रायेणाह -- यतस्त्वमित्यादि। सकलवेदवेदान्ततदुपबृंहणेषु भगवद्वाचिशब्दानां सर्वचिदचिद्वस्तुवाचिसामान्यविशेषसकलशब्दसामानाधिकरण्यस्यापि शरीरात्मभाव एव निबन्धनमित्येतत्प्रघट्टफलितमित्यभिप्रायेणाहत्वमक्षरं सदसदित्यादि।

Sri Jayatritha

14th century CE · Dvaita Vedanta

Dvaita

A pre-eminent Dvaita scholar who wrote decisive commentaries defending Madhvacharya's views.

सर्वे नमस्यन्ति [11।36] इत्येतद्युक्तमिति स्वयमेवोक्त्वाकस्माच्च ते न नमेरन् इति विरुद्धं कथं पृच्छति इत्यत आक्षेप एवायमिति ज्ञापयन् तन्निवर्त्याशङ्काप्रदर्शनपूर्वकमवतारयति -- कथमिति। इति शङ्कायामिति शेषः तत्तस्या उत्तरम्। महात्मन्नक्षुद्रचित्तेत्यल्पार्थप्रतीतिनिरासार्थमाह -- पूर्णश्चेति। आत्मा जीव इति प्रतीतिं वारयितुमाह -- आत्मेति। उक्तो निरुक्तः। यद्यस्मात्। आप्नोतेर्मन्। पकारस्य च तकारः। आङ्पूर्वाद्दाञः स एव प्रत्ययः आकारलोपस्तत्वम्। आङ्पूर्वाददो मन्। तत्वं च। इह देहे। सन्ततो भावो नित्या सत्ता। आङ्पूर्वात्तनोतेर्ङ्मन्। सदसद्भावात्मकं विश्वं त्वमेवेति सत्तादिप्रदत्वादेवोच्यते। नत्वन्यथा? तथा सति उत्तरवाक्यविरोधात्? इति भावेन तत्पठित्वा सप्रमाणकं व्याचष्टे -- तत्परमिति।

Sri Madhusudan Saraswati

16th century CE · Advaita

Advaita

Wrote "Gudhartha Dipika", a celebrated commentary reconciling Advaita and Bhakti.

तुभ्यं पुरस्तात् अग्रभागे नमोस्तु? तुभ्यं पुरो नमःस्तादिति वा। अथशब्दः समुच्चये। पृष्ठतोऽपि तुभ्यं नमःस्तात् नमोस्तु। ते तुभ्यं सर्वत एव सर्वासु दिक्षु स्थिताय। हे सर्व? वीर्यं शारीरबलं विक्रमः शिक्षा शस्त्रप्रयोगकौशलंएकं वीर्याधिकं मन्य उतैकं शिक्षयाधिकम् इत्युक्तेर्भीमदुर्योधनयोरन्येषु च एकैकं व्यवस्थितं। त्वं तु अनन्तवीर्यश्चामितविक्रमश्चेति समस्तमेकं पदं। अनन्तवीर्येति संबोधनं वा। सर्वं समस्तं जगत्समाप्नोषि सम्यगेकेन सद्रूपेणाप्नोषि सर्वात्मना व्याप्नोषि ततस्तस्मात्सर्वोऽसि। त्वदतिरिक्तं किमपि नास्तीत्यर्थः।

Sri Purushottamji

16th century CE · Vallabha Sampradaya

Shuddhadvaita

Son of Sri Vallabhacharya, who continued the Pushti Marg tradition of Gita exposition.

किञ्च -- नम इति। हे सर्व सर्वात्मन् पुरस्तात् पूर्वदिशि पृष्ठतः पश्चिमायां सर्वतः दक्षिणोत्तरकोणादिषु सर्वासु दिक्षु ते नमो नम एवाऽस्तु।किमासनं ते गरुडासनाय इत्यादिवाक्यैर्नान्यत्किञ्चिदपि कर्तुं शक्यमिति भावः। इदमेवैवकारेण व्यञ्जितम्। यद्वा पृष्ठतः पश्चात् सर्वतः दक्षिणोत्तरादिभागेषु नमः कृतो नमस्कारः ते पुरस्तादेव पूर्वभाग एव सन्मुख एवाऽस्त्विति वाऽर्थः। ननु पश्चाद्भागकृतो नमस्कारः कथं पूर्वभागीयः स्यादत् आह -- अनन्तेति। अनन्तं वीर्यं सामर्थ्यम्? अभितो बहुतरः पराक्रमो यस्य तादृशस्त्वं सर्वं जगत् समाप्नोषि तत्तद्रूपनामभेदेन सर्वरूपो भूत्वा वर्तसे? ततः सर्वः सर्वरूपस्त्वमसि? अतः पृष्ठतोऽपि नमस्कृतौ पूर्वभागो न बाध्यत इत्यर्थः।

Sri Vallabhacharya

15th–16th century CE · Shuddhadvaita

Shuddhadvaita

Founded the Pushti Marg devotional tradition, focused on Krishna as the Supreme Being.

सर्वरूपत्वेन वीर्यं तस्योपपादयति -- परं ब्रह्म तु कृष्णो हि सच्चिदानन्दकं बृहत्। द्विरूपं तद्धि सर्वं स्यादेकं तस्माद्विलक्षणम् इति वाक्यैरेकमपि तत्सर्वमित्याशयेनानन्तवीर्य हे सर्वेति सम्बोधयति। विश्वं व्याप्नोषि सर्वप्रपञ्चरूपस्त्वमेवेत्यर्थः।

Swami Gambirananda

20th century CE · Ramakrishna Mission

Advaita

Translated the Sanskrit commentaries of Shankara into precise English for modern readers.

11.40 Namah, salutation to You; purastat, in the East; atha, and; even prsthatah, behind. Salutation be sarvatah, on all sides; eva, indeed; te, to You who exist everywhere; sarva, O All! Tvam, You; are ananta-virya-amita-vikramah, possessed of infinite strength and infinite heroism. virya is strength, and vikramah is heroism. Someone though possessing strength for the use of weapons etc. [Ast. reads 'satru-vadha-visaye, in the matter of killing an enemy'.-Tr.] may lack heroism or have little heroism. But You are possessed of infinite strength and infinite heroism. Samapnosi, You pervade, interpenetrate; sarvam, everything, the whole Universe, by Your single Self. Tatah, hence; asi, You are; sarvah, All, i.e., no entity exists without You. 'Since I am guilty of not knowing Your greatness, therefore,'-

Dr. S. Sankaranarayan

20th century CE · Academic / Shaiva

Shaiva

Scholar-practitioner who authored commentaries uniting rigorous Indology with spiritual practice.

11.39-40 Namo namah etc. Salutation and salutation : This repetition reveals the intensity of the devotion. What has been taught by the past chapters by the Bhagavat regarding His own intrinsic nature, Arjuna - witnessing the same by perception - declares it openly by way of devotional hymn. Hence, to comment on the hymn would symply amount to the repetition [of what has already been said by us]. Hence, let me (11.Ag.) abstain [from commenting on it].

Swami Adidevananda

20th century CE · Ramakrishna Mission

Vishishtadvaita

Ramakrishna Mission monk who translated the Gita Bhasya of Ramanuja into English.

11.40 You, of infinite prowess and measureless heroic action, pervade all beings as their very Self and therefore, are, in reality all of them. Terms, naming all other entities, are truly naming You; for they, both sentient as well as non-sentient, constitute Your body, and as such are just Your modes. Therefore You alone, having them all as Your modes, are signified by all terms standing for them. In the texts, 'O by You of infinite form, is the cosmos pervaded' (11.38) and 'You pervade all, and hence are all' (11.40), it is clearly stated that the pervasion as the Self is the only rationale for speaking of them as one with You, in the sense of co-ordinate predication as in the text, 'You are the imperishable and also being and non-being' (11.37) and 'You are Vayu, Yama and Agni' (11.39).

Frequently Asked Questions

What is Shankaracharya's commentary on BG 11.40?

,नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम्? अथ पृष्ठतः ते पृष्ठतः अपि च ते नमोऽस्तु? ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्व। अनन्तवीर्यामितविक्रमः अनन्तं वीर्यम् अस्य? अमितः विक्रमः अस्य। वीर्यं सामर्थ्यं विक्रमः पराक्रमः। वीर्यवानपि कश्चित् शत्रुवधादिविषये न पराक्रमते? मन्दपराक्रमो वा। त्वं तु अनन्तवीर्यः अमितविक्रमश्च इति अनन्तवीर्यामितविक्रमः। सर्वं समस्तं जगत् समाप्नोषि सम्यक् एकेन आत्

How many scholars have commented on this verse?

VaniSagar presents 19 authoritative commentaries on Bhagavad Gita 11.40, representing Advaita, Vishishtadvaita, Dvaita, Shuddhadvaita, Kashmir Shaivism, and modern Neo-Vedantic traditions.

Which commentary is best for a beginner?

For beginners, Swami Chinmayananda's and Swami Sivananda's commentaries are most accessible, written in clear modern English. For serious scholarly study, Sri Shankaracharya's commentary is the gold standard.

Read Verse 11.40 in Other Languages

← Previous CommentaryFull Verse & Translation →Next Commentary →